|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.133. अध्यायः 133
Mahabharata - Adi Parva - Chapter Topics
अश्विभ्यां माद्र्यां नकुलसहदेवयोरुत्पत्तिः॥ 1 ॥
युधिष्ठिरादीनां नामकरणम्॥ 2 ॥ वसुदेवप्रेषितेन पुरोहितेन पाण्डवानामुपनयनादिसंस्कारकरणम्॥ 3 ॥
पाण्डवानां शुक्राद्धनुर्वेदशिक्षणम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-133-0x(783)(5874)
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च।
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत्॥ 1-133-1(5875)
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप।
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा॥ 1-133-2(5876)
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा।
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन॥ 1-133-3(5877)
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता।
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः॥ 1-133-4(5878)
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि।
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत्॥ 1-133-5(5879)
संरम्भो हि सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति।
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय॥ 1-133-6(5880)
पाण्डुरुवाच। 1-133-7x(784)
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते।
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया॥ 1-133-7(5881)
तव त्विदं मतं मत्वा प्रयतिष्याम्यतः परम्।
मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते॥ 1-133-8(5882)
वैशम्पायन उवाच। 1-133-9x(785)
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत्।
`अनुगृह्णीष्व कल्याणि मद्रराजसुतामपि।'
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम्॥ 1-133-9(5883)
मम चापिण्डनाशाय पूर्वेषां च महात्मनाम्।
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम्॥ 1-133-10(5884)
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम्।
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना॥ 1-133-11(5885)
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्।
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि॥ 1-133-12(5886)
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः।
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम्॥ 1-133-13(5887)
सा त्वं माद्रीं प्लवेनैव तारयैनामनिन्दिते।
अपत्यसंविधानेन परां कीर्तिमवाप्नुहि॥ 1-133-14(5888)
`कुन्त्युवाच। 1-133-15x(786)
धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा।
तस्मादनुग्रहं तस्याः करोमि कुरुनन्दन॥' 1-133-15(5889)
वैशम्पायन उवाच। 1-133-16x(787)
एवमुक्ताऽब्रवीन्मार्द्रीं सकृच्चिन्तय दैवतम्।
तस्मात्ते भविताऽपत्यमनुरूपमसंशयम्॥ 1-133-16(5890)
`ततो मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा।
ततो राजसुता स्नाता शयने संविवेश ह॥' 1-133-17(5891)
ततो माद्री विचार्यैका जगाम मनसाऽश्विनौ।
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ।
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि॥ 1-133-18(5892)
तथैव तावपि यमौ वागुवाचाशरीरिणी।
`धर्मतो भक्तितश्चैव शीलतो विनयैस्तथा॥ 1-133-19(5893)
सत्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति।
मासते तेजसाऽत्यर्थं रूपद्रविणसंपदा॥ 1-133-20(5894)
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः।
भक्त्या च कर्मणा चैव तथाऽऽशीर्भिर्विशांपते॥ 1-133-21(5895)
ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम्।
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन्॥ 1-133-22(5896)
पूर्वजं नकुलेत्येवं सहदेवेति चापरम्।
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः॥ 1-133-23(5897)
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः।
पाण्डुपुत्रा व्यराजन्त पञ्चसंवत्सरा इव॥ 1-133-24(5898)
महासत्त्वा महावीर्या महाबलपराक्रमाः।
पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान्महौजसः॥ 1-133-25(5899)
मुदं परमिकां लेभे ननन्द च नराधिपः।
ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम्॥ 1-133-26(5900)
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम्।
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत्॥ 1-133-27(5901)
तमुवाच पृथा राजन् रहस्युक्ता तदा सती।
उक्ता सक्वद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता॥ 1-133-28(5902)
बिभेम्यस्याः परिभवात्कुस्त्रीणां गतिरिदृशी।
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम्॥ 1-133-29(5903)
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम।
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः॥ 1-133-30(5904)
संभूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः।
शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः॥ 1-133-31(5905)
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः।
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः॥ 1-133-32(5906)
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ।
विस्मयं जनयामासुर्महर्षीणां समेयुषाम्॥ 1-133-33(5907)
`जातमात्रानुपादाय शतशृङ्गनिवासिनः।
पाण्डोः पुत्रानमन्यन्त तापसाः स्वानिवात्मजान्॥ 1-133-34(5908)
वैशम्पायन उवाच। 1-133-35x(788)
ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः॥ 1-133-35(5909)
पाण्डुः शापभयाद्भीतः शतशृङ्गमुपेयिवान्।
तत्रैव मुनिभिः सार्धं तापसोऽभूत्तपस्विभिः॥ 1-133-36(5910)
शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः।
योगध्यानपरो राजा बभूवेति च वादकाः॥ 1-133-37(5911)
प्रबुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः।
पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम संकथाः॥ 1-133-38(5912)
इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः।
पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः॥ 1-133-39(5913)
सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन्।
न भवेरन्क्रियाहीनाः पाण्डुपुत्रा महाबलाः॥ 1-133-40(5914)
पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम्।
वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम्॥ 1-133-41(5915)
युक्तानि च कुमाराणां पारबर्हाण्यनेकशः।
कुन्तीं माद्रीं च संदिश्य दासीदासपरिच्छदम्॥ 1-133-42(5916)
गावो हिरण्यं रौप्यं च प्रेषयामास भारत।
तानि सर्वाणि संगृह्य प्रययौ स पुरोहितः॥ 1-133-43(5917)
तमागतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम्।
पूजयामास विधिवत्पाण्डुः परपुरञ्जयः॥ 1-133-44(5918)
पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम्।
ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत्॥ 1-133-45(5919)
गर्भाधानादिकृत्यानि चौलोपनयनानि च।
काश्यपः कृतवान्सर्वमुपाकर्म च भारत॥ 1-133-46(5920)
चौलोपनयनादूर्ध्वमृषभाक्षा यशस्विनः।
वैदिकाध्ययने सर्वे समपद्यन्त पारगाः॥ 1-133-47(5921)
शर्यातेः प्रथमः पुत्रः शुक्रो नाम परन्तपः।
येन सागरपर्यन्ता धुषा निर्जिता मही॥ 1-133-48(5922)
अश्वमेधशतैरिष्ट्वा स महात्मा महामखैः।
आराध्य देवताः सर्वाः पितॄनपि महामतिः॥ 1-133-49(5923)
शतशृह्गे तपस्तेपे शाकमूलफलाशनः।
तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः॥ 1-133-50(5924)
तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः।
गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः॥ 1-133-51(5925)
असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ।
धनुर्वेदे गतः पारं सव्यसाची परन्तपः॥ 1-133-52(5926)
शुक्रेण समनुज्ञातो मत्समोऽयमिति प्रभो।
अनुज्ञाय ततो राजा शक्तिं खङ्गं ततः शरान्॥ 1-133-53(5927)
धनुश्च दमतां श्रेष्ठस्तालमात्रं महाप्रभम्।
विपाठक्षुरनाराचान्गृध्रपक्षैरलङ्कृतान्॥ 1-133-54(5928)
ददौ पार्थाय संहृष्टो महोरगसमप्रभान्।
अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः॥ 1-133-55(5929)
मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसः॥ 1-133-56(5930)
एकवर्षान्तरास्त्वेवं परस्परमरिन्दमाः।
अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च॥' 1-133-57(5931)
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः।
सर्वे ववृधिरेऽल्पेन कालेनाप्स्विव पङ्कजाः॥ ॥ 1-133-58(5932)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः॥ 133 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-133-2 विगुणे प्रजोत्पादनानधिकृते। अवरत्वे कनिष्ठात्वे। वरार्हायाः कृन्त्या अपेक्षया॥ 1-133-6 संरम्भोऽभिमानः॥ 1-133-7 इष्टमनिष्टं वा वक्ष्यसीति संदेहेन॥ 1-133-8 प्रतिपत्स्यते अङ्गीकरिष्यति॥ 1-133-9 सतानमविच्छेदम्॥ 1-133-10 मम पूर्वेषां चापिण्डनाशाय पिण्डविनाशाभावाय। बहुषु पुत्रेषु कस्यचिदपि पुत्रस्य संततेरविच्छेदसंभवादित्यर्थः॥ 1-133-11 यशस इति कृतकृत्या अपि यशोर्थं देवगुर्वाद्याराधनं कुर्वन्तीत्यर्थः॥ 1-133-20 अत्यश्विनौ अश्विभ्यामधिकौ॥ 1-133-24 अनुसंवत्सरं संवत्सरमनु पश्चाज्जाता अपि देवताभावात्सर्वे पञ्चसंवत्सरा इवादृश्यन्तेत्यर्थः॥ त्रयस्त्रिंशदधिकशततमोऽध्यायः॥ 133 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|